Sunday, August 26, 2007

Monday, August 20, 2007

विनॊदिका - २

रमॆषः गॊपालस्य गृहम् अतिथिरूपॆण आगतवान् । सम्भाषणानन्तरम् गॊपलः तम् भॊजनार्थम् आहूतवान् । रमॆषः चिन्तितवान् प्रथममॆव कथम् वक्तव्यम् अहम् भॊजनम् इच्छामि इति ? अतः उक्तवान् मास्तु इति । सः चिन्तितवान् गॊपालः पुनः पृच्छति इति ।

परन्तु गॊपालः कॆवलम् "अस्तु तर्हि" ऎव उक्तवान् । इदानीम् किम् करणियम् ? रमॆशः उपायम् चिन्तितवान् । किम् वक्तव्यम् इति सः मनसी सिद्धम् कृतवान्

रमॆशः - भॊः । तक्रम् अस्ति किम् ?

गॊपालः - क्षम्यताम् । नास्ति

रमॆशः - तर्हि किन्चित् खादामि !!

विनॊदिका

अस्ति एका "अद्वैतवादिनी" लता नाम । एकदा सा चिन्तितवती, मया अद्वैतसिद्धान्तस्य प्रचारः करणीयः इति । तस्याः गृहस्य भित्त्यां सा लिखितवती - "सोऽहम्" । परन्तु तस्याः सहोदरी, सीता, द्वैतवादिनी आसीत् । भित्त्यां लिखितं सन्देशं दृष्ट्वा सा चिन्तितवती, मया अपि द्वैतसिद्धान्तस्य प्रचारः करणीयः इति । सा तत्र गत्वा "दा" इति अक्षरं योजितवती । अतः तत् वचनं "दासोऽहम्" इति अभवत् ।

अग्रिमदिने लता स्वलिखितं सन्देशं द्रष्टुम् आगतवती । परन्तु पदस्य परिवर्तनं दृष्ट्वा सा विस्मिता अभवत् । "एतत् तु मम सहोदर्या लिखितं निश्चयेन । मया किमपि करणीयम्" । सा पदात् पूर्वम् अन्यम् एकं "स" अक्षरम् योजितवती । "सदासोऽहम्" इति । तद्दिने सायङ्काले, सीता पुनः पदस्य परिवर्तनं कृतवती - "दासदासोऽहम्" । एवमेव प्रतिदिनं, पदस्य परिवर्तनं जातम् । अन्ते किम् अभवत् इति भवन्तः एव पूरयन्तु :)