Friday, February 8, 2008

अक्षयपदानि !

बाल्यकाले श्रुतम् उदाहरणम् - HABIT इति पदम् पश्यतु । यदि h निष्कासयति तदापि " A BIT" अवशिष्टति - स्वभावः तथा ऎव खलु ? A निष्कासयति तथापि BIT अवशिष्टति । अनन्तरमपि "IT" ।

कॆवलम् "I" इति अहङ्कारं निष्कासयति तदा एव स्वभावस्य भग्नं भवति ।

तादृशानि पदानि सम्कृतभाषायामपि भवितव्यानि । तॆषां गणस्य नाम् अपि स्यात् - अहं न जानामि । परन्तु अत्र इदानीम् समानपदानि अन्वॆषयामि । ( यध्यपि सर्वत्र अर्थः समानः वा परस्परसम्भन्दिनः वा न भवॆत् ) .. अत्र आरम्भं करॊमि । अन्यानि "comments" मध्यॆ यदा यदा स्मरामि तदा तदा लिखामि । भवन्तः अपि लिखन्तु :-) ॥

श्लॊकविना - लॊकविना - कविना - विना - ना ।

निर्विकल्प - विकल्प - कल्प - अल्प।

आनयति - नयति - यति ।

विलम्ब - लम्ब - अम्ब ।

स्वागतम् - गतम् - तम् ।

Friday, January 18, 2008

रचयॆम सम्स्कृत"भुवनम्" !!

ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
इष्टिकां विना मृत्तिकां विना कॆवलसम्भाषणविधया संस्कृतसम्भाषणकलया
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

शिशुबालानां स्मितमृदुवचनॆ युवयुवतीनां मञ्जुभाषाणॆ (2)
वृद्धगुरूणाम् वत्सलहृदयॆ (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

अरुणोदयतः सुप्रभातम् शुभरात्रिं निशि संवदॆंम (2)
दिवानिशं सम्स्कृतवचनॆन (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

सॊदर-सॊदरी-भाव-बन्धुरं मातृप्रॆमतॊ बहुजनरुचिरं (2)
वचनललितम् श्रवणमधुरं (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

मूलशिलासम्भाषणमस्य हिन्दुजनैक्यं शिखरमुन्नतम् (2)
सॊपानं श्रवणादिविधानम् (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

audio: http://www.speaksanskrit.org/audio/giitaani/rachayemaSamskRutabhavanam.mp3

Wednesday, September 19, 2007

अवसरवादः !!

रामसॆतु विषयॆ चर्चा भारतॆ प्रचलति इदानीम् ! तमिल् नाडू राज्यस्य मुख्यमन्त्रिनः करुणानिधिः उक्तवान् श्रीरामस्य अस्तित्वमॆव नास्ति इति । ऎषः अपि च ऎतस्य पूर्वजः पेरियार् अपि इतप्पूर्वम् उक्तवन्तौ "श्रीरामः आर्य राजा अस्ति अपि च रामायणम् आर्य-द्राविड युद्धविषयॆ अस्ति" इति !! किम् भोः ? किन्चित् अपि वाक्स्थिरता नास्ति किम् ?

अपि च द्राविड-वादी जनाः वदन्ति रामः - रावणः युद्धम् ब्राह्मण-द्राविड युद्धम् सूचयति ! रामायणम् ब्राह्मण आधिपत्यम् कथयति इति ! रामः तु क्षत्रियः आसीत् .. रावण: ब्राह्मण: अतः कथम् वा भॊः एतत् सिद्धान्तम् विश्वसनीयम् ?!

Sunday, August 26, 2007

Monday, August 20, 2007

विनॊदिका - २

रमॆषः गॊपालस्य गृहम् अतिथिरूपॆण आगतवान् । सम्भाषणानन्तरम् गॊपलः तम् भॊजनार्थम् आहूतवान् । रमॆषः चिन्तितवान् प्रथममॆव कथम् वक्तव्यम् अहम् भॊजनम् इच्छामि इति ? अतः उक्तवान् मास्तु इति । सः चिन्तितवान् गॊपालः पुनः पृच्छति इति ।

परन्तु गॊपालः कॆवलम् "अस्तु तर्हि" ऎव उक्तवान् । इदानीम् किम् करणियम् ? रमॆशः उपायम् चिन्तितवान् । किम् वक्तव्यम् इति सः मनसी सिद्धम् कृतवान्

रमॆशः - भॊः । तक्रम् अस्ति किम् ?

गॊपालः - क्षम्यताम् । नास्ति

रमॆशः - तर्हि किन्चित् खादामि !!

विनॊदिका

अस्ति एका "अद्वैतवादिनी" लता नाम । एकदा सा चिन्तितवती, मया अद्वैतसिद्धान्तस्य प्रचारः करणीयः इति । तस्याः गृहस्य भित्त्यां सा लिखितवती - "सोऽहम्" । परन्तु तस्याः सहोदरी, सीता, द्वैतवादिनी आसीत् । भित्त्यां लिखितं सन्देशं दृष्ट्वा सा चिन्तितवती, मया अपि द्वैतसिद्धान्तस्य प्रचारः करणीयः इति । सा तत्र गत्वा "दा" इति अक्षरं योजितवती । अतः तत् वचनं "दासोऽहम्" इति अभवत् ।

अग्रिमदिने लता स्वलिखितं सन्देशं द्रष्टुम् आगतवती । परन्तु पदस्य परिवर्तनं दृष्ट्वा सा विस्मिता अभवत् । "एतत् तु मम सहोदर्या लिखितं निश्चयेन । मया किमपि करणीयम्" । सा पदात् पूर्वम् अन्यम् एकं "स" अक्षरम् योजितवती । "सदासोऽहम्" इति । तद्दिने सायङ्काले, सीता पुनः पदस्य परिवर्तनं कृतवती - "दासदासोऽहम्" । एवमेव प्रतिदिनं, पदस्य परिवर्तनं जातम् । अन्ते किम् अभवत् इति भवन्तः एव पूरयन्तु :)