Wednesday, September 19, 2007

अवसरवादः !!




रामसॆतु विषयॆ चर्चा भारतॆ प्रचलति इदानीम् ! तमिल् नाडू राज्यस्य मुख्यमन्त्रिनः करुणानिधिः उक्तवान् श्रीरामस्य अस्तित्वमॆव नास्ति इति । ऎषः अपि च ऎतस्य पूर्वजः पेरियार् अपि इतप्पूर्वम् उक्तवन्तौ "श्रीरामः आर्य राजा अस्ति अपि च रामायणम् आर्य-द्राविड युद्धविषयॆ अस्ति" इति !! किम् भोः ? किन्चित् अपि वाक्स्थिरता नास्ति किम् ?

अपि च द्राविड-वादी जनाः वदन्ति रामः - रावणः युद्धम् ब्राह्मण-द्राविड युद्धम् सूचयति ! रामायणम् ब्राह्मण आधिपत्यम् कथयति इति ! रामः तु क्षत्रियः आसीत् .. रावण: ब्राह्मण: अतः कथम् वा भॊः एतत् सिद्धान्तम् विश्वसनीयम् ?!