Friday, April 2, 2010

letter to mohanlal

सुश्री-मोहनलाल्-महोदय । नमस्ते ।

भवान् संस्कृते D Litt प्राप्तवान् इति वार्तां दृष्टवान् अहम् । अभिनन्दनानि ! कर्णभारं नाटकानन्तरं विक्रमोर्वशीयं नाटकं संस्कृते कर्तुम् उत्सुकः इति ज्ञात्वा महान् सन्तोषः ।

D Litt प्राप्य यत् भाषणं दत्तं तत् पठित्वा इतोऽपि अधिकः सन्तोषः । आशासे यत् भवान् शीघ्रमेव सरलरीत्या संस्कृतं पठितुम् अवसरं प्राप्नोति इति । भवतः जनप्रियसंस्कृतचलनचित्रस्य प्रकाशनदिनं दूरे नास्ति इति विश्वसिमि | यथा भवान् भाषणे उक्तवान् भारतीयानां शिरसि संस्कृतसरस्वती अस्ति एव । अपि च इदानीम् अनेके जनाः संस्कृतेन वक्तुम् अपि शक्नुवन्ति।

अहं विद्यालये वा प्राचीनरीत्या वा संस्कृतं न पठितवान् । संस्कृत-भारत्याः शिबिराणि गत्वा एव पठितवान् । मम पत्रे दोषाः स्युः - तदर्थं क्षन्तव्यः ।

धन्यवादाः

Sunday, March 28, 2010

तरङ्गपतनम् - मम जल्पनम्

जीवनॆ बहुवारम् इष्टकार्यं कर्तुम् अपि बाह्यप्रभावाः आवश्यकाः । मम ब्लोग् पश्यतु । गत वर्षद्वये अहं किमपि न लिखितवान् । कारणानि कानि इति वदामि अधः ।

१) एकं तु मम् जीवनॆ - परिवर्तनसमयः आसीत् - स्थलपरिवर्तनम् ... रीतिपरिवर्तनम् .....

२) मम अन्तर्जाललब्धिः बहुन्यूनम् आसीत् । लाप्टॊप् अपि किञित् उपहतम् ।

३ ) सम्स्कृतमित्रैः सह सम्पर्कः न्यूनः जातः । अभ्यासः अपि ।

४) ... आलस्यः ...... :)

-----------------

सद्य पुनः सम्स्कृतमित्रमन्डले भवितुम् भाग्यः प्राप्तः .... अपि च कापि माम् पृष्टवती मम सम्स्कृतब्लोग् विषयॆ ... तु यथा भौतिकशास्त्रॆ ( वॆदान्ते अपि प्रायः) वदति तरङ्गपतनम् अभवत् - http://en.wikipedia.org/wiki/Wave_function_collapse ... "............ wave function .......... appears to reduce to a single one of the states after interaction with an observer " :)

अग्रे अधिकम् लेखितुम् शक्ष्यामि इति आशयामि ।

Saturday, May 31, 2008

जीवित्स्य व्यावर्तनानि

बाल्यकाले O Henry महॊदयॆन लिखिता "Cop and the Anthem" इति लघुकथा मया पठिता । तादृशः अनुभवः मम जीवनॆ अपि अस्ति इति दृश्यतॆ । कारागृहवासम् वा चौर्यम् वा न :-) । परन्तु बहुवारम् किमपि कार्यम् आरम्भॆ न इच्छामि । कर्तव्यम् अस्ति इति कारणात् करॊमि । यदा कार्यम् रमते तदा कार्यस्य समाप्तिम् भवति ! पुनः नूतनम् सम्सारम् ।

कतिवारम् किमपि प्राप्तुम् बहुप्रयत्नम् करॊमि । न प्राप्नॊमि । तस्य इच्छाम् यदा त्यजामि तदा यदृच्छ्या प्राप्नॊमि ।

मम जीवनॆ प्रायः घर्षम् किञ्चित् अधिकमॆव इति मन्यॆ - नूतनकार्यॆभ्यः । परन्तु यदि किमपि कार्यम् मह्यम् रॊचतॆ - बहुरॊचतॆ । तस्मिन् विषयॆ रागिनॊस्मि इति वक्तुम् शक्यतॆ । यदाकदापि तत् साह्हाय्यकरम् परन्तु यदाकदापि तत्कारणात् क्लॆशः अपि अनुभवामि । सहजवासना एव ।

Sunday, April 27, 2008

पादस्पर्शं क्षमस्वमॆ !






चलनचित्रस्य 01:40 आरभ्य पश्यतु ! बालिकाबालकैः सम्यक् कृतः । बालिकया दत्तम् विवरणमपि उत्तमम्
नमॊस्तु प्रिय दत्तायै तुभ्यम् दॆवि वसुन्धरॆ।
त्वम् माता सर्वलॊकानां पादस्पर्शं क्षमस्वमॆ ॥
समुद्रवसने देवि पर्वतस्तनमंडले ।
विष्णुपत्‍नि नमस्तुभ्यम्‌ पादस्पर्शम्‌ क्षमस्वमे ।।
मया पूर्वं ज्ञ्यातम् आसीत् यत् नाट्यॆ अपि भूमिवन्दना भवति इति । ऎकवारम् कस्मिन्नपि बालकानाम् शिबिरॆ कस्यापि माता माम् पाठितवतिइ अपि भरतनाट्यॆ भूमिवन्दनां कथम् करणीयम् इति । परन्तु तत् तु अहं विस्मृतवान् । अन्तर्जालॆ अन्वॆषणम् कृतवान् - तदापि न दृष्ट्वान् ।
अन्तॆ मम मित्रम् पृष्टवान् । सा उक्तवाती मञ्जरी नो चॆत् पुष्पाञ्जली नाम्ना नृत्यॆ पश्यतु इति । अहम् त्स्यै एकस्य नृत्यस्य सूत्रबन्धम् ( link ?) पॆषितवान् । तस्मिन् 2:50 - 3:00 समयॆ अस्ति इति सा सूचितवती । अधः पश्यतु ।मित्राय धन्यवादाः ।

( शीघ्रम् लिखितावनहम् । दॊषाः स्यूः )




Sunday, March 16, 2008

विनॊदिका - ३

सम्स्कृतभारत्याः साप्ताहान्तकक्ष्या । पतिः पत्नी च छात्रॆषु स्तः । यदा यदा चालकः उदाहरणानि वक्तुम् पृच्छति तौ किम् वदतः इति पश्यामः

कक्ष्या - १

चालकः - भवति ! जीवनॆ किम् आवश्यकम् इति वदतु ।

पत्नी - पञ्च्-शाटिकाः चॊलाः पञ्च चुरीदार् भूषणानि ......

चालकः - उदाहरणम् पर्याप्तम् । भवान् वदतु किम् आवश्यकम् ।

पतिः - शान्तिदिनम् आवश्यकम् ।

कक्ष्या - २

चालकः - "सर्वदा" इति उपयुज्ज्या वाक्यम् रचयतु

पतिः - मम पत्नी सर्वदा दूरदर्शनम् पश्यति । आपणम् गच्छति । अहम् सर्वदा गृहकार्यम् करॊमि

पत्नी - मम पतिः सर्वदा असत्यम् वदति ।

कक्ष्या - ३

चालकः - भवान् "सह" इति उपयुज्ज्या वाक्यम् रचयतु

पतिः - मम पत्न्या सह जीवनम् कठिनम्

चालकः - भवती "विना" इति उपयुज्ज्या वाक्यम् वदतु

पत्नी - असत्यम् विना मम पतिः किमपि न वदति

----------------------
एवमॆव ........

Friday, February 8, 2008

अक्षयपदानि !




बाल्यकाले श्रुतम् उदाहरणम् - HABIT इति पदम् पश्यतु । यदि h निष्कासयति तदापि " A BIT" अवशिष्टति - स्वभावः तथा ऎव खलु ? A निष्कासयति तथापि BIT अवशिष्टति । अनन्तरमपि "IT" ।

कॆवलम् "I" इति अहङ्कारं निष्कासयति तदा एव स्वभावस्य भग्नं भवति ।


तादृशानि पदानि सम्कृतभाषायामपि भवितव्यानि । तॆषां गणस्य नाम् अपि स्यात् - अहं न जानामि । परन्तु अत्र इदानीम् समानपदानि अन्वॆषयामि । ( यध्यपि सर्वत्र अर्थः समानः वा परस्परसम्भन्दिनः वा न भवॆत् ) .. अत्र आरम्भं करॊमि । अन्यानि "comments" मध्यॆ यदा यदा स्मरामि तदा तदा लिखामि । भवन्तः अपि लिखन्तु :-) ॥


श्लॊकविना - लॊकविना - कविना - विना - ना ।


निर्विकल्प - विकल्प - कल्प - अल्प।


आनयति - नयति - यति ।

विलम्ब - लम्ब - अम्ब ।

स्वागतम् - गतम् - तम् ।

Friday, January 18, 2008

रचयॆम सम्स्कृत"भुवनम्" !!

ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
इष्टिकां विना मृत्तिकां विना कॆवलसम्भाषणविधया संस्कृतसम्भाषणकलया
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

शिशुबालानां स्मितमृदुवचनॆ युवयुवतीनां मञ्जुभाषाणॆ (2)
वृद्धगुरूणाम् वत्सलहृदयॆ (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

अरुणोदयतः सुप्रभातम् शुभरात्रिं निशि संवदॆंम (2)
दिवानिशं सम्स्कृतवचनॆन (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

सॊदर-सॊदरी-भाव-बन्धुरं मातृप्रॆमतॊ बहुजनरुचिरं (2)
वचनललितम् श्रवणमधुरं (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

मूलशिलासम्भाषणमस्य हिन्दुजनैक्यं शिखरमुन्नतम् (2)
सॊपानं श्रवणादिविधानम् (2)
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

ग्रामे नगरे सम्स्तराष्ट्रे रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥
रचयॆम संस्कृतभुवनम् ॥ रचयॆम संस्कृतभुवनम् ॥

audio: http://www.speaksanskrit.org/audio/giitaani/rachayemaSamskRutabhavanam.mp3