Friday, April 2, 2010

letter to mohanlal

सुश्री-मोहनलाल्-महोदय । नमस्ते ।

भवान् संस्कृते D Litt प्राप्तवान् इति वार्तां दृष्टवान् अहम् । अभिनन्दनानि ! कर्णभारं नाटकानन्तरं विक्रमोर्वशीयं नाटकं संस्कृते कर्तुम् उत्सुकः इति ज्ञात्वा महान् सन्तोषः ।

D Litt प्राप्य यत् भाषणं दत्तं तत् पठित्वा इतोऽपि अधिकः सन्तोषः । आशासे यत् भवान् शीघ्रमेव सरलरीत्या संस्कृतं पठितुम् अवसरं प्राप्नोति इति । भवतः जनप्रियसंस्कृतचलनचित्रस्य प्रकाशनदिनं दूरे नास्ति इति विश्वसिमि | यथा भवान् भाषणे उक्तवान् भारतीयानां शिरसि संस्कृतसरस्वती अस्ति एव । अपि च इदानीम् अनेके जनाः संस्कृतेन वक्तुम् अपि शक्नुवन्ति।

अहं विद्यालये वा प्राचीनरीत्या वा संस्कृतं न पठितवान् । संस्कृत-भारत्याः शिबिराणि गत्वा एव पठितवान् । मम पत्रे दोषाः स्युः - तदर्थं क्षन्तव्यः ।

धन्यवादाः

1 comment:

dr kamlesh shakta said...

hari om manohar ji bhawatam karyani dristwa ativa prasidati manah
mam sampark sutram asti
kamlesh10may@gmail.com
durvani
9990216172
punar milamah