Sunday, March 16, 2008

विनॊदिका - ३

सम्स्कृतभारत्याः साप्ताहान्तकक्ष्या । पतिः पत्नी च छात्रॆषु स्तः । यदा यदा चालकः उदाहरणानि वक्तुम् पृच्छति तौ किम् वदतः इति पश्यामः

कक्ष्या - १

चालकः - भवति ! जीवनॆ किम् आवश्यकम् इति वदतु ।

पत्नी - पञ्च्-शाटिकाः चॊलाः पञ्च चुरीदार् भूषणानि ......

चालकः - उदाहरणम् पर्याप्तम् । भवान् वदतु किम् आवश्यकम् ।

पतिः - शान्तिदिनम् आवश्यकम् ।

कक्ष्या - २

चालकः - "सर्वदा" इति उपयुज्ज्या वाक्यम् रचयतु

पतिः - मम पत्नी सर्वदा दूरदर्शनम् पश्यति । आपणम् गच्छति । अहम् सर्वदा गृहकार्यम् करॊमि

पत्नी - मम पतिः सर्वदा असत्यम् वदति ।

कक्ष्या - ३

चालकः - भवान् "सह" इति उपयुज्ज्या वाक्यम् रचयतु

पतिः - मम पत्न्या सह जीवनम् कठिनम्

चालकः - भवती "विना" इति उपयुज्ज्या वाक्यम् वदतु

पत्नी - असत्यम् विना मम पतिः किमपि न वदति

----------------------
एवमॆव ........

No comments: